जन्म, नामानि
पाणिनेः जन्म क्रिस्तपूर्वसप्तमशताब्द्यां शलातुरग्रामे अभवत् । अतः तस्य 'शलातुरीयः' इति नाम अति प्रसिद्धम् अस्ति । वर्तमानकाले पाकिस्थानदेशे स्थितः लहुरनामकः ग्रामः एव शलातुरग्रामः अस्ति । पाणिनेः मातुः नाम दाक्षी । अतः एव सः दाक्षीपुत्रः इत्यपि कथ्यते । 'पणिनः' इति तस्य पितुः नाम । अतः तस्य नाम 'पाणिनिः' अभवत् । आचार्यः वर्षः पाणिनेः गुरुः आसीत् । पाणिनिः 'तक्षशिला'विद्यापीठे शिक्षां प्राप्तवान् ।
[सम्पादयतु]अष्टाध्यायी
एवं श्रूयते यत् ताण्डवनृत्यानन्तरं शिवः स्वढक्कां चतुर्दशवारम् अवादयत् । ततः 'अ इ उ ण्' इत्यादीनि चतुर्दश सूत्राणि निर्गतानि । तानि महेश्वरप्रदत्तानि आसन् । अतः एव '''माहेश्वरसूत्राणि''' इति कथ्यन्ते । तेषाम् आधारेण एव पाणिनिः '''अष्टाध्यायी''' इति व्याकरणग्रन्थं लिखितवान् । अस्मिन् ग्रन्थे अष्टौ अध्यायाः सन्ति । अतः एव 'अष्टाध्यायी' इति अस्ति । अष्टाध्याय्यां व्याकरणस्य ३९६५ सूत्राणि सन्ति । अस्मिन् ग्रन्थे शब्दरूपाणि, धातुरूपाणि, सन्धयः, समासाः, कारकाणि, कृत्प्रत्ययाः, तद्धितप्रत्ययाः इत्यादीनि भाषायाः अवयवानि निरूपितानि सन्ति । पाणिनिकाले संस्कृतभाषा लोकव्यवहारस्य भाषा आसीत् । अतः एव जनभाषा आसीत् । अष्टाध्यायीसूत्रेषु प्रत्यक्षरूपेण अप्रत्यक्षरूपेण वा बहूनां विदुषां ग्रन्थानां, ग्रामाणां, जनपदानां, स्थानानां च उल्लिखः अस्ति । यथा - 'ऋतौ भारद्वाजस्य', 'वासुदेवार्जुनाभ्यां वून्', 'पुराणप्रोक्तेषु ब्राह्मणकल्पेषु', 'सिन्धुतक्षशिलादिभ्योऽणञौ' ।
[सम्पादयतु]व्याख्यानानि
पाणिनेः अष्टाध्यायीम् अधिकृत्य कात्यायनः वार्तिकानि अलिखत् । वार्तिकानि पाणिनीयव्याकरणस्य पूरकाणि सन्ति । महामुनिः पतञ्जलिः अष्टाध्याय्याः वार्तिकानां च व्याख्यारूपं महाभाष्यं नाम ग्रन्थं लिखितवान् । पाणिनिः, कात्यायनः, पतञ्जलिश्च एते त्रयः व्याकरणशास्त्रस्य प्रमुखाः आचार्याः सन्ति । पाणिनिसूत्राणाम् आधारेण भट्टोजिदीक्षितः सिद्धान्तकौमुदीं रचितवान् । वरदराजः लघुसिद्धान्तकौमुद्याः रचनां कृतवान् ।
[सम्पादयतु]मरणम्
पञ्चतन्त्रानुसारेण पाणिनेः मुत्युः सिंहकारणात् अभवत् - 'सिंहो व्याकरणस्य कर्तुरहरत् प्राणान् प्रियान् पाणिनेः ।' परम्परानुसारेण पाणिनेः मृत्युः त्रयोदशीतिथ्याम् अभवत् । अतः एव पण्डितपरम्परायाम् अधुना अपि त्रयोदश्यां व्याकरणस्य अनध्यायः भवति ।
No comments:
Post a Comment